This inscription is engraved on a beautifully polished stele belonging to a local temple. It consists of 27 lines of writing. The language is Sanskrit and it is written throughout in verse. There are altogether 26 stanzas, the metres being AnuShtub (1-25) and Sardulavikridita (26).
The inscription records the erection of a Linga and the foundation of the temple consecrated to Shiva under the name of Vijayeshwara by Simhadatta, physician of King Jayavarman and the governor of Adhyapura, in the year 589 Saka (667 AD). It furthur narrates the history of the family of the donor for four generations and records the names of the following kings in this connection : Rudravarman, Bhavavarman, Mahendravarman, Ishanavarman and Jayavarman.
It may be noted that close to Kedei Ang there still exists a town called Adhyapura (rich town)
जयत्यनन्यसामान्यमहिमा परमेश्वरः।
ब्रह्मोपेन्द्राञ्जान्यासद्विगुणाङ्घ्रियुगाम्बुजः॥१॥
राजा श्रीरुद्रवर्मासीत् त्रिविक्रमपराक्रमः।
यस्य सौराज्यमद्यापि दिलीपस्येव विश्रुतम्॥२॥
तस्याभूतां भिष‰ुख्यौ भ्रातरावश्विनाविव।
ब्रह्मदत्तस्स यो ज्येष्ठो ब्रह्मसिंहस्स योऽनुजः॥३॥
तयोरपि महाभाग्यौ भागिनेयौ बभूवतुः।
धर्मदेवः प्रथमजः सिंहदेवस्त्वनन्तरः॥४॥
स्वशक्त्याक्रान्तराज्यस्य राज्ञः श्रीभववर्मणः।
श्रीगम्भीरेश्वरो यस्य राज्यकल्पतरोः फलम्॥५॥
तस्य तौ मन्त्रिनावास्तां सम्मतौ कृतवेदिनौ।
धर्मशास्त्रार्थशास्त्रज्ञौ धर्मार्थाविव रूपिणौ॥६॥
महेन्द्रवर्मणो भूयश्श्रीमतः पृथिवीपतेः।
तौ चाप्यमात्यतां प्राप्तौ प्रत्ययौ कृत्यवस्तुषु॥७॥
सिंहदेवोऽनुजो राज्ञा दूतत्वे सत्कृतः कृती।
प्रीतये प्रेषितः प्रेम्णा चम्पाधिपनराधिपम्॥८॥
धर्मदेवस्य तु पुनः तनयोऽभूदनल्पधीः।
कुलकाननसिंहो यस्सिंहवीर इतीरितः॥९॥
विद्वान् योऽद्यापि विद्वद्भिरापीतकवितारसः।
श्रीशानवर्मनृपतेरभवन्मन्त्रिसत्तमः॥१०॥
निकामवरदन्देवं श्रीनिकामेश्वरं हरम्।
हरिञ्च सिद्धिसङ्कल्पस्वामिनं सिद्धिदायिनम्॥११॥
योऽतिष्ठिपदिमौ देवौ श्रद्धया भूरिदक्षिणौ।
कीर्तिस्तम्भाविवोदग्रौ यौ स्थितावाभुवस्स्थितेः॥१२॥
तस्य सूनुरसूयादिदोषैरस्स्पृष्टमानसः।
योऽभवद्भवसन्यस्तचित्तवृत्तिरुदारधीः॥१३॥
बाल्येऽपि विनयोपेतो यौवनेऽपि जितेन्द्रियः।
त्रिवर्गारम्भकालेऽपि धर्मे यस्त्वधिकादरः॥१४॥
यस्मिन्नैदंयुगीनेऽपि सदाचारावलम्बिनि।
काप्रचाितो धर्मो न स्खलत्येकपादपि॥१५॥
श्रीमतो राजसिंहस्य जयिनो जयवर्मणः।
यो वैद्यो वेदितव्यानां वेत्तापि निरहंकृतिः॥१६॥
पुनः सत्कृत्य यं राजा प्रादात् स्वे राजमातुले।
अलब्धराजशब्देऽपि लब्धराजार्हसंपदि॥१७॥
पश्चादाढ्यपुरस्यास्य योऽध्यक्षत्वे कुलक्रमात्।
योग्योऽयमिति सत्कृत्य स्वयं राज्ञा नियोजितः॥१८॥
यस्मिन्भवति धर्मेण पराभ्युदयकारिणि।
अन्वर्थसंज्ञां संप्राप्तमिदमाढ्यपुरं पुरम्॥१९॥
उचितं यः करादानमारामेभ्यः कुटुम्बिनाम्।
अनाददत्प्रभुरपि पूर्णवृत्तिं अदादितः॥२०॥
रोगिनामर्थिनां वापि विश्रम्भाद्रुषितं वचः।
शृण्वतो यस्य करुणा द्विगुणा समजायत॥२१॥
यन्मदीयं शुभं नाम जन्मप्रभृति सम्भृतम्।
तदस्तु पितुरेवेति सङ्कल्पो यस्य कीर्तितः॥२२॥
शिवयज्ञेन यो देवान् मुनीनध्ययनेन च।
पितॄंश्चातर्पयत्तोयैः सत्पुत्रकरनिःसृतैः॥२३॥
तेनेह सिंहदत्तेन दत्तदातव्यवस्तुना।
स्थापितो विजयस्यायं दाता श्रीविजयेश्वरः॥२४॥
अस्मिन् तेन च यद्दतं दासारामादि किञ्चन।
तदेव देवस्वमिति न हरेन्नापि नाशयेत्॥२५॥
वैशाखप्रथमद्विपञ्चकदिने द्वाराष्टबाणैर्युते
जीवश्चापयुतो वृषे कविसुतः सिंहार्धगश्चन्द्रमाः।
कौलीरेऽवनिजो घटे रविसुतश्शेषास्तु मेषस्स्थिताः
सोऽयं विजयेश्वरो विजयते यः कीटलग्ने स्थितः॥२६॥