No. 33 – TUOL PRAH THAT INSCRIPTION

DATED 592

Tuol Prah That is in the province of Prei Veng.

The inscription is written in Sanskrit and consists 11 verses in Arya metre.

It records the installation of a Siva linga in the year 595 by an official of king Jayavarman I, who was the president of the Royal Assembly and received various honours from the king.

शरनवशरा~घ्किताब्दे वृषेन्द्रलग्ने पुनर्वसुयुतेन्दौ।
चैत्रसितपक्षनवमे स्थापितमत्रैश्वरं लिङ्गम्॥१॥

जयति जगदेकहेतुः नतजननिश्श्रेयसाभ्युदयाकारी।
काम~झ्जगत्सुचरितच्छेदनमिति यस्स निर्दहति॥२॥

यस्य जितचक्रभृतो जितशत्रुगणस्य विक्रमेण जिता।
अपि सागरपर्यन्ता करावबद्धा हरेरिव भूः॥३॥

राजा श्रीजयवर्मा श्रीपतिरिव सर्वदा श्रिया जुष्टः।
रणशरजयिनां राज्~झां स माननीयः पुरोयातः॥४॥

सबलैरपि नृपसिंहैर्दुर्ल~घ्घितशासनस्य तस्यैव।
भृत्यः स्वाम्यनुरक्तः त्यागी शूरो विजितशत्रुः॥५॥

स्वस्वामिनः प्रसादात् स च राजसभाधिपत्यकृतनामा।
सौवर्णकलशकर~घ्कसितातपत्रादिसन्मानः॥६॥

तेनैकान्तिकभक्त्या शम्भोः स्वायम्भुवं महालि~घ्गम्।
श्रीकेदारेश्वर इति नाम्ना संस्थापितं विधिना॥७।

हैमं कोशं मकुटं कलशकर~घ्कं तथा च रूप्यमयम्।
क्षेत्रारामा बहवो गोमहिषा दासवर्गाश्च॥८॥

विविधो द्रव्यविशेषः श्रद्धादत्तो धिया कुराजेन।
श्रीकेदारेश्वरस्य पूजार्थं तेन भक्तिमता॥९॥

दत्तमिदमुत्तरोदयनामाभ्यां तत्स्वभागिनेयाभ्याम्।
स पुरं पूजास्थितये तेन च तस्यैव देवेश्वरस्य॥१०॥

श्रीकेदारेशधनं यत् कि~झ्चित् कश्चिदाहृत्य सरति।
एकविंशतिनरकान्तं खानलतापितो व्रजतु॥११॥

Leave a Reply

Your email address will not be published. Required fields are marked *